This website does readability filtering of other pages. All styles, scripts, forms and ads are stripped. If you want your website excluded or have other feedback, use this form.

ऋग्वेदः सूक्तं १.१६६ - विकिस्रोतः

ऋग्वेदः सूक्तं १.१६६

विकिस्रोतः तः (ऋग्वेद: सूक्तं १.१६६ इत्यस्मात् पुनर्निर्दिष्टम्) Jump to navigation Jump to search

ऋग्वेदः - मण्डल १ अगस्त्यो मैत्रावरुणिः।

← सूक्तं १.१६५ ऋग्वेदः - मण्डल १
सूक्तं १.१६६
अगस्त्यो मैत्रावरुणिः। सूक्तं १.१६७ → दे. मरुतः। जगती, १४-१५ त्रिष्टुप्। अगस्त्यऋषिः


तन्नु वोचाम रभसाय जन्मने पूर्वं महित्वं वृषभस्य केतवे ।
ऐधेव यामन्मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन ॥१॥
नित्यं न सूनुं मधु बिभ्रत उप क्रीळन्ति क्रीळा विदथेषु घृष्वयः ।
नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति स्वतवसो हविष्कृतम् ॥२॥
यस्मा ऊमासो अमृता अरासत रायस्पोषं च हविषा ददाशुषे ।
उक्षन्त्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः ॥३॥
आ ये रजांसि तविषीभिरव्यत प्र व एवासः स्वयतासो अध्रजन् ।
भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामः प्रयतास्वृष्टिषु ॥४॥
यत्त्वेषयामा नदयन्त पर्वतान्दिवो वा पृष्ठं नर्या अचुच्यवुः ।
विश्वो वो अज्मन्भयते वनस्पती रथीयन्तीव प्र जिहीत ओषधिः ॥५॥
यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिं पिपर्तन ।
यत्रा वो दिद्युद्रदति क्रिविर्दती रिणाति पश्वः सुधितेव बर्हणा ॥६॥
प्र स्कम्भदेष्णा अनवभ्रराधसोऽलातृणासो विदथेषु सुष्टुताः ।
अर्चन्त्यर्कं मदिरस्य पीतये विदुर्वीरस्य प्रथमानि पौंस्या ॥७॥
शतभुजिभिस्तमभिह्रुतेरघात्पूर्भी रक्षता मरुतो यमावत ।
जनं यमुग्रास्तवसो विरप्शिनः पाथना शंसात्तनयस्य पुष्टिषु ॥८॥
विश्वानि भद्रा मरुतो रथेषु वो मिथस्पृध्येव तविषाण्याहिता ।
अंसेष्वा वः प्रपथेषु खादयोऽक्षो वश्चक्रा समया वि वावृते ॥९॥
भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः ।
अंसेष्वेताः पविषु क्षुरा अधि वयो न पक्षान्व्यनु श्रियो धिरे ॥१०॥
महान्तो मह्ना विभ्वो विभूतयो दूरेदृशो ये दिव्या इव स्तृभिः ।
मन्द्राः सुजिह्वाः स्वरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः ॥११॥
तद्वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रमदितेरिव व्रतम् ।
इन्द्रश्चन त्यजसा वि ह्रुणाति तज्जनाय यस्मै सुकृते अराध्वम् ॥१२॥
तद्वो जामित्वं मरुतः परे युगे पुरू यच्छंसममृतास आवत ।
अया धिया मनवे श्रुष्टिमाव्या साकं नरो दंसनैरा चिकित्रिरे ॥१३॥
येन दीर्घं मरुतः शूशवाम युष्माकेन परीणसा तुरासः ।
आ यत्ततनन्वृजने जनास एभिर्यज्ञेभिस्तदभीष्टिमश्याम् ॥१४॥
एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥१५॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१

सायणभाष्यम्

॥ श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।

इत्थं द्वितीयाष्टकगस्तृतीयोऽध्याय आदरात् ।

व्याख्यातः सायणार्येण पुरुषार्थप्रदर्शकः ॥

अथ चतुर्थोऽध्याय आरभ्यते। ‘कया शुभा' इत्यस्मिंस्त्रयोविंशेऽनुवाके पञ्चदश सूक्तानि । तत्र ‘ तन्नु' इत्येतत् द्वितीयं सूक्तं पञ्चदशर्चम् । अत्रानुक्रमणिका- ‘तन्न्वगस्त्यो मारुतं हि द्वित्रिष्टुबन्तं मित्रावरुणयोर्दीक्षितयोरुर्वशीमप्सरसं दृष्ट्वा वासतीवरे कुम्भे रेतोऽपतत्ततोऽगस्त्यवसिष्ठावजायेताम्' इति । ‘सूक्तसंख्यानुवर्तत आन्यस्याः सूक्तसंख्यायाः ' ( अनु. १२. १ ) इति परिभाषितत्वात् पञ्चदशर्चम् । उक्तलक्षणेनागस्त्येन दृष्टत्वात्तस्यार्षम् । “ मारुतं हि ' इत्युक्तत्वात् तुह्यादिपरिभाषया इदमादिसूक्तत्रयं मरुद्देवताकम् । अन्त्ये द्वे त्रिष्टुभौ शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । विनियोगो लैङ्गिकः ॥


तन्नु वो॑चाम रभ॒साय॒ जन्म॑ने॒ पूर्वं॑ महि॒त्वं वृ॑ष॒भस्य॑ के॒तवे॑ ।

ऐ॒धेव॒ याम॑न्मरुतस्तुविष्वणो यु॒धेव॑ शक्रास्तवि॒षाणि॑ कर्तन ॥

तत् । नु । वोचाम । रभसाय । जन्मने । पूर्वम् । महिऽत्वम् । वृषभस्य । केतवे ।

ऐधाऽइव । यामन् । मरुतः । तुविऽस्वनः । युधाऽइव । शक्राः । तविषाणि । कर्तन ॥ १ ॥

हे "मरुतः वयं युष्मदीयं "तत् तादृशं प्रसिद्धं "पूर्वं पूरकं पूर्वतनं वा "महित्वं माहात्म्यं "नु "क्षिप्रं “वोचाम ब्रूमः । किमर्थम् । "रभसाय राभस्ययुक्ताय "जन्मने वेद्यां प्रादुर्भावाय वेद्यां संनिधानाय इत्यर्थः । तदपि किमर्थमित्यत आह । "वृषभस्य फलस्य वर्षितुर्यज्ञस्य "केतवे प्रज्ञानाय । वायुप्रेरणेन मेघागमनं प्रसिद्धम् । हे “तुविष्वणः गमनसंरम्भेण प्रभूतध्वनियुक्ता हे "शक्राः सर्वमपि कर्तुं शक्ताः यूयं "यामन् यामनि यागगमने प्रस्तुते सति "ऐधेव ऐधानि एधःसंबन्धीनि तेजांसीव प्राप्येण महत्त्वेन “तविषाणि बलानि सामर्थ्यानि कर्तन कुरुत तत्स्तुम इत्यर्थः । तत्र दृष्टान्तः । "युधेव युद्धेन तत्तद्युद्धनिमित्तं यथा तविषाणि कुरुथ तद्वत् ॥


नित्यं॒ न सू॒नुं मधु॒ बिभ्र॑त॒ उप॒ क्रीळ॑न्ति क्री॒ळा वि॒दथे॑षु॒ घृष्व॑यः ।

नक्ष॑न्ति रु॒द्रा अव॑सा नम॒स्विनं॒ न म॑र्धन्ति॒ स्वत॑वसो हवि॒ष्कृत॑म् ॥

नित्यम् । न । सूनुम् । मधु । बिभ्रतः । उप । क्रीळन्ति । क्रीळाः । विदथेषु । घृष्वयः ।

नक्षन्ति । रुद्राः । अव॑सा । नमस्विनम् । न । मर्धन्ति । स्वऽतवसः । हविःऽकृतम् ॥२॥

“नित्यं "न "सूनुम् औरसं प्रियं पुत्रमिव "मधु मधुरं हविः "बिभ्रतः धारयन्तो मरुतः “विदथेषु यागेषु “घृष्वयः रक्षःप्रभृतीनां घर्षकाः सन्तः क्रीळाः क्रीडनशीलाः “उप उपेत्य "क्रीळन्ति विहरन्ति । किंच "रुद्राः । रुद्रपुत्रा मरुतोऽपि रुद्रा उच्यन्ते जन्यजनकयोरभेदात् । मरुतां रुद्रपुत्रस्वं पुराणेषु तपसा तुष्टौ पार्वतीपरमेश्वरौ मरुतः पुत्रत्वेन स्वीचक्रतुरिति प्रसिद्धम् । "नमस्विनं नमस्कारोपलक्षितस्तोत्रोपेतं "हविष्कृतं हविषः कर्तारं प्रदातारं यजमानम् “अवसा रक्षणेन तर्पणेन वा निमित्तभूतेन "नक्षन्ति व्याप्नुवन्ति । किंच "स्वतवसः स्वायत्तबला मरुतो यजमानं न “मर्धन्ति न संग्रामयन्ति न क्लेशयन्तीत्यर्थः ॥


यस्मा॒ ऊमा॑सो अ॒मृता॒ अरा॑सत रा॒यस्पोषं॑ च ह॒विषा॑ ददा॒शुषे॑ ।

उ॒क्षन्त्य॑स्मै म॒रुतो॑ हि॒ता इ॑व पु॒रू रजां॑सि॒ पय॑सा मयो॒भुव॑ः ॥

यस्मै । ऊमासः । अमृताः । अरासत । रायः । पोषम् । च । हविषा । ददाशुषे ।

उक्षन्ति । अस्मै । मरुतः । हिताःऽइव । पुरु । रजांसि । पर्यसा । मयःऽभुवः ॥ ३ ॥

"यस्मै यजमानाय "हविषा "ददाशुषे सोमादिहविर्दत्तवते हविषा प्रीताः “ऊमासः अवितारः “अमृताः अमरणधर्माणो मरुतः "रायस्पोषं धनस्य पुष्टिम् । चशब्दात् पश्वादिपुष्टिम् । "अरासत प्रायच्छन् । रासतिर्दानार्थः । "अस्मै यजमानाय “हिताइव हिताचरणाः सखाय इव सन्तः "मयोभुवः सुखस्य भावयितारः "मरुतः "रजांसि लोकान् "पुरु प्रभूतं यथा भवति तथा “पयसा उदकेन सस्याद्युत्पत्त्यर्थम् "उक्षन्ति सिञ्चन्ति ।।।


आ ये रजां॑सि॒ तवि॑षीभि॒रव्य॑त॒ प्र व॒ एवा॑स॒ः स्वय॑तासो अध्रजन् ।

भय॑न्ते॒ विश्वा॒ भुव॑नानि ह॒र्म्या चि॒त्रो वो॒ याम॒ः प्रय॑तास्वृ॒ष्टिषु॑ ॥

आ। ये । रजांसि । तविषीभिः । अव्यत । प्र । वः । एवासः । स्वऽयतासः । अध्रजन् ।

भयन्ते । विश्वा । भुवनानि । हर्म्या । चित्रः । वः । यामः । प्रऽयतासु । ऋष्टिषु ॥ ४ ॥

हे मरुतः युष्मत्संबन्धिनः "ये “एवासः एवाः अश्वविशेषाः “तविषीभिः स्वकीयैर्बलैर्वृष्टिप्रदानादिरूपैः "रजांसि लोकान् “आ “अव्यत सर्वत आवृण्वन्ति ते “वः युष्माकम् एवासः अश्वाः “स्वयतासः स्वयमेव सारथिना विनैव युक्ताः “प्र “अध्रजन् प्रकर्षेण गच्छन्ति व्याप्नुवन्ति । किंच युष्मदागमनात् "विश्वा "भुवनानि सर्वाणि भूतजातानि विश्वा “हर्म्या सर्वाणि हर्म्याणि च “भयन्ते बिभ्यति पतनात् । यस्मादेवं तस्मात् “वो “याम: “चित्रः चायनीयः । आश्चर्यभूत इत्यर्थः । भीतेः कारणमाह । “ऋष्टिषु युद्धस्थासु हेतिषु “प्रयतासु प्रकर्षेणोद्यतासु सतीषु । अथवा भीतौ दृष्टान्तः । ऋष्टिषु प्रयतासु सतीषु । लुप्तोपमेयम् । आयुधेषूद्यतेषु यथा जना बिभ्यति तद्वद्युष्मदागमनात् बिभ्यतीत्यर्थः ॥


यत्त्वे॒षया॑मा न॒दय॑न्त॒ पर्व॑तान्दि॒वो वा॑ पृ॒ष्ठं नर्या॒ अचु॑च्यवुः ।

विश्वो॑ वो॒ अज्म॑न्भयते॒ वन॒स्पती॑ रथी॒यन्ती॑व॒ प्र जि॑हीत॒ ओष॑धिः ॥

यत् । त्वेषऽयामाः । नदयन्त । पर्वतान् । दिवः । वा । पृष्ठम् । नर्याः । अचुच्यवुः ।

विश्वः । वः । अज्मन्। भयते । वनस्पतिः। रथियन्तीऽइव । प्र। जिहीते। ओषधिः ॥ ५ ॥

मरुतः “त्वेषयामाः प्रदीप्तगमनाः "यत् यदा "पर्वतान् पर्ववतो गिरेर्गह्रराणि पूरकान् मेघान् वा "नदयन्त नादयन्ति "वा अथवा "दिवः विद्योतनात्मकस्यान्तरिक्षस्य "पृष्ठम् उपरिभागं "नर्याः नरेभ्यो हिताः “अचुच्यवुः गच्छन्ति तदा “वः युष्मत्संबन्धिनि "अज्मन् गमने निमित्तभूते सति “विश्वः “वनस्पतिः वनस्य पालयिता वृक्षसमूहः "भयते बिभेति । तथा “ओषधिः प्रियङ्गुव्रीह्यादिः “प्र “जिहीते प्रकर्षेण गच्छति स्वस्थानात् इतस्ततश्चलतीत्यर्थः । तत्र दृष्टान्तः। “रथीयन्तीव रथमात्मन इच्छन्ती स्त्री । रथारूढेत्यर्थः । तादृशी स्त्रीव । सा यथा चलति तद्वत् ॥ ॥ १ ॥


यू॒यं न॑ उग्रा मरुतः सुचे॒तुनारि॑ष्टग्रामाः सुम॒तिं पि॑पर्तन ।

यत्रा॑ वो दि॒द्युद्रद॑ति॒ क्रिवि॑र्दती रि॒णाति॑ प॒श्वः सुधि॑तेव ब॒र्हणा॑ ॥

यूयम् । नः । उग्राः । मरुतः । सुऽचेतुना । अरिष्टऽग्रामाः । सुऽमतिम् । पिपर्तन ।

यत्र । वः । दिद्युत् । रदति । क्रिविःऽदती । रिणाति । पश्वः । सुधिताऽइव । बर्हणा ॥६॥

हे “उग्राः उद्गूर्णबलाः "मरुतः "यूयं "सुचेतुना शोभनचेतसा "अरिष्टग्रामाः अहिं सितसंघाः सन्तः “नः अस्माकं "सुमतिं शोभनबुद्धिं "पिपर्तन पूरयत । कस्मिन्काले इति तदुच्यते । "यत्र यस्मिन् काले “वः युष्मत्संबन्धिनी “क्रिविर्दती विक्षेपणशीलदन्ती “दिद्युत् हेतिः "रदति विलिखति मेघसंस्त्यायं “पश्वः पशूंश्च "रिणाति रेषति हिनस्ति । वायौ वाति सति पशवः शीर्यन्ते इति प्रसिद्धम् । हिंसायां दृष्टान्तः । "सुधिता सुहिता सुष्ठु प्रेरिता “बर्हणा हतिः तत्साधना हेतिर्वा यथा रिणाति तद्वत् ॥


प्र स्क॒म्भदे॑ष्णा अनव॒भ्ररा॑धसोऽलातृ॒णासो॑ वि॒दथे॑षु॒ सुष्टु॑ताः ।

अर्च॑न्त्य॒र्कं म॑दि॒रस्य॑ पी॒तये॑ वि॒दुर्वी॒रस्य॑ प्रथ॒मानि॒ पौंस्या॑ ॥

प्र । स्कम्भऽदेष्णाः । अनवभ्रऽराधसः । अलातृणासः । विदथेषु । सुऽस्तुताः ।

अर्चन्ति । अर्कम् । मदिरस्य । पीतये । विदुः । वीरस्य । प्रथमानि । पौंस्या ॥ ७ ॥

“प्र "स्कम्भदेष्णाः प्रकर्षेण स्तम्भितदानाः । अविरतदाना इत्यर्थः । "अनवभ्रराधसः अभ्रष्टहविरादिधनाः । राध इति धननाम । “अलातृणासः । नकारस्य स्थाने लकारः ॥ अनातृणासः आतर्दनरहिताः । अथवा । अलं पर्याप्तम् आतर्दनाः शत्रूणाम् । यद्वा । अलम् अत्यर्थं दातारः फलानाम् ।। एवंरूपा मरुतः “विदथेषु यागेषु "अर्कम् अर्चनीयमिन्द्रं स्वसखीभूतम् "अर्चन्ति पूजयन्ति स्तुत्यादिना संभावयन्तीत्यर्थः । किमर्थं "मदिरस्य मादनसाधनस्य सोमस्य पीतये पानाय । तस्येन्द्रस्य महत्त्वं कथं जानन्तीत्यत आह । ते मरुतः “वीरस्य विविधं शत्रूणामीरकस्य इन्द्रस्य "प्रथमानि प्रतमानि मुख्यानि "पौंस्या पुंस्त्वानि वृत्रवधादिरूपाणि विदुः जानन्ति ।।।


श॒तभु॑जिभि॒स्तम॒भिह्रु॑तेर॒घात्पू॒र्भी र॑क्षता मरुतो॒ यमाव॑त ।

जनं॒ यमु॑ग्रास्तवसो विरप्शिनः पा॒थना॒ शंसा॒त्तन॑यस्य पु॒ष्टिषु॑ ॥

शतभुजिऽभिः । तम् । अभिऽह्रुतेः । अघात् । पूःऽभिः । रक्षत । मरुतः । यम् । आवत ।

जनम् । यम् । उग्राः । तवसः । विऽरप्शिनः । पाथन। शंसात् । तनयस्य। पुष्टिषु ॥ ८ ॥

हे "मरुतः यूयं “शतभुजिभिः । शतमित्यपरिमितनाम । असंख्यातभोगवद्भिः "पूर्भिः पालनैः जेतव्यैः शत्रूणां नगरैर्वा तं "रक्षत पालयत । तमित्युक्तं कमित्याह । "यम् जनम् “अभिह्रुतेः अभिभवकारणात् कुटिलस्वभावात् "अघात् पापात् "आवत अरक्षत । किंच हे "उग्राः उद्गूर्णतेजसो हे "तवसः बलवन्तो वेगवन्तो वा हे “विरप्शिनः । महन्नामैतत् । महान्तः । रपणीया: शब्दाः रपाः। ते येषां ते रप्शिनः । विविधा रप्शिनः स्तोतारो येषां ते तथोक्ता हे तादृशा यूयं "यं च “जनं "पाथन पाथ रक्षथ । कस्मानिमित्तादिति उच्यते । "तनयस्य । उपलक्षणमेतत् । पुत्रादीनां "पुष्टिषु पोषेषु निमित्तभूतेषु “शंसात् अभिशंसनात् । यमेवं कुरुथ तं रक्षतेति शेषः ।। पापक्षयाद्यनिष्टपरिहारेण पुत्रादिपोषरूपेष्टप्राप्त्या च रक्षथेत्यर्थः ।।


विश्वा॑नि भ॒द्रा म॑रुतो॒ रथे॑षु वो मिथ॒स्पृध्ये॑व तवि॒षाण्याहि॑ता ।

अंसे॒ष्वा व॒ः प्रप॑थेषु खा॒दयोऽक्षो॑ वश्च॒क्रा स॒मया॒ वि वा॑वृते ॥

विश्वानि । भद्रा । मरुतः । रथेषु । वः । मिथस्पृध्याऽइव । तविषाणि । आऽहिता ।

अंसेषु । आ। वः। प्रऽपथेषु । खादयः। अक्षः। वः । चक्रा। समय । वि। ववृते ।। ९ ।।

हे "मरुतः वः रथेषु युष्मत्संबन्धिरथेषु रंहणसाधनेषु "विश्वानि "भद्रा सर्वाणि कल्याणानि भोगयोग्यानि द्रव्याण्यस्मभ्यं प्रदेयानि फलानि वा अहितानि । तथा वः “अंसेष्वा तदुपलक्षितभुजेष्वपि । आकारोऽप्यर्थे । "मिथस्पृध्येव बलाधिक्यात् परस्परस्पर्धाविषयाणि “तविषाणि बलानि अंसेषूक्तलक्षणान्यायुधानि वा आहितानि । किंच वः प्रपथेषु । प्रगताः पन्थानो येषु विश्रामस्थानेषु तानि प्रपथानि । तेषु “खादयः खाद्यानि भक्ष्याण्याहितानि । यद्वा । प्रगतः पन्था यैस्तेषु पादाग्रेषु खादयः स्थिरा आभरणविशेषा आहिताः । किंच "अक्षो “वः युष्मत्संबन्धी रथ्यः अक्षः “चक्रा तत्रोपनिबद्धानि चक्राणि "समया समीपे तेषां परिसरे “वि “ववृते विशेषेण वर्तते । न कदाचिदपि चक्रेषु संलग्नो भवतीत्यर्थः । यस्मादेवं देवयजनगमनसाधनानि सन्ति तस्मात् शीघ्रमागच्छध्वमित्यभिप्रायः ।।


भूरी॑णि भ॒द्रा नर्ये॑षु बा॒हुषु॒ वक्ष॑स्सु रु॒क्मा र॑भ॒सासो॑ अ॒ञ्जय॑ः ।

अंसे॒ष्वेता॑ः प॒विषु॑ क्षु॒रा अधि॒ वयो॒ न प॒क्षान्व्यनु॒ श्रियो॑ धिरे ॥

भूरीणि । भद्रा । नर्येषु । बाहुषु । वक्षःऽसु । रुक्माः । रभसासः । अञ्जयः ।

अंसेषु । एताः। पविषु । क्षुराः । अधि । वयः। न । पक्षान् । वि। अनु । श्रियः । धिरे ॥१०॥

ते मरुतः "नर्येषु नरेभ्यो हितेषु "बाहुषु भुजेषु "भूरीणि प्रभूतानि "भद्रा भद्राणि कल्याणानि धनानि स्तोतृभ्यो दातुं “धिरे दधिरे धारयन्ति । तथा “वक्षःसु उरःस्थलेषु रुक्माः सुवर्णरत्नादिनिर्मितान्याभरणानि धारयन्ति । कीदृशानि । रभसासः राभस्ययुक्तानि कान्तिमन्ति वा । तथा “अञ्जयः व्यक्तानि । अंसेषु भुजमूलेषु “एताः शुक्लवर्णा मालाः । "पविषु वज्रसदृशेष्वायुधेषु “क्षुराः क्षुरधाराः। “अधि सप्तम्यर्थानुवादी । एवमेते मरुतः सर्वाङ्गेषु "श्रियः लक्ष्मीः अनुक्रमेण “वि धिरे विविधं धारयन्ति । तत्र दृष्टान्तः । "वयो "न "पक्षान् पक्षिणः पक्षानिव ॥ ॥ २ ॥


म॒हान्तो॑ म॒ह्ना वि॒भ्वो॒३॒॑ विभू॑तयो दूरे॒दृशो॒ ये दि॒व्या इ॑व॒ स्तृभि॑ः ।

म॒न्द्राः सु॑जि॒ह्वाः स्वरि॑तार आ॒सभि॒ः सम्मि॑श्ला॒ इन्द्रे॑ म॒रुत॑ः परि॒ष्टुभ॑ः ॥

महान्तः । मह्ना । विऽभ्वः। विऽभूतयः । दूरेऽदृशः । ये । दिव्याःऽइव । स्तृऽभिः।

मन्द्राः । सुऽजिह्वाः । स्वरितारः । आसऽभिः । सम्ऽमिश्लाः । इन्द्रे । मरुतः । परिऽस्तुभः ॥११॥

"ये "मरुतः "महान्तः माहात्म्योपेताः । केन । "मह्ना महत्त्वेन प्रभावातिशयेन । तथा "विभ्वः विभवो व्याप्ताः तथा “विभूतयः विविधैश्वर्यवन्तः "दूरदृशः दूरे दृश्यमानाः प्रकाशमानाः । दूरदर्शने दृष्टान्तः । "दिव्याः "स्तृभिः "इव । स्तृ इति नक्षत्रनाम ‘ऋक्षाः स्तृभिरिति नक्षत्राणाम् ' ( निरु. ३. २० ) इति निरुक्तत्वात् । दिवि भवा देवाः स्तृभिः स्वपुष्पकभूतैस्तेजःपुञ्जैर्नक्षत्रैर्यथा दूरे दृश्यमाना भवन्ति तद्वत् । किंच “मन्द्राः मादनाः “सुजिह्वाः शोभनजिह्वाः “आसभिः आस्यैः "स्वरितारः शब्दयितारः । प्रियवचना इत्यर्थः । अत एव सुजिह्वा इत्युक्तम् । किंच “इन्द्रे "संमिश्लाः सम्यग्मिश्रयितारः । इन्द्रसहायिन इत्यर्थः । ‘मरुतो हैनं नाजहुः ' ( ऐ. ब्रा. ३. २० ) इति श्रुतेः । तथा “परिष्टुभः परिस्तोभयुक्ताः स्तुतिभिर्युक्ताः । एवं महाभागा ये मरुतः सन्ति तेऽस्मद्यज्ञम् आगच्छन्तीति शेषः ।।


तद्व॑ः सुजाता मरुतो महित्व॒नं दी॒र्घं वो॑ दा॒त्रमदि॑तेरिव व्र॒तम् ।

इन्द्र॑श्च॒न त्यज॑सा॒ वि ह्रु॑णाति॒ तज्जना॑य॒ यस्मै॑ सु॒कृते॒ अरा॑ध्वम् ॥

तत्। वः। सुजाताः । मरुतः । महिऽत्वनम् । दीर्घम् । वः । दात्रम्। अदितेःऽइव । व्रतम् ।

इन्द्रः। चन। त्यजसा । वि। ह्रुणाति। तत्। जनाय। यस्मै । सुऽकृते । अराध्वम् ॥ १२॥

हे “सुजाताः शोभनजननाः हे मरुतः “वः युष्मदीयं “महित्वनं महत्त्वं तत् तादृक् खलु। तदित्युक्तं किमित्याह । “वः युष्माकं “दात्रं दानं वृष्टयादिरूपं “दीर्घम् अत्यायतमविच्छिन्नम् । प्रकृष्टोपकारीत्यर्थः । दीर्घत्वे दृष्टान्तः । “अदितेः “व्रतम् “इव । अदीनाया देवमातुर्भूम्या वा । व्रतमिति कर्मनाम् । तद्यथा दीर्घम् अतिविस्तृतं तद्वत् । अदितिर्द्यौरदितिरन्तरिक्षम् ' ( ऋ. सं. १. ८९. १०) इत्यादिमन्त्रवर्णात् । किंच हे मरुतः यूयं “यस्मै “सुकृते शोभनयागादिकर्त्रे यजमानाय यदभिमतं धनम् “अराध्वं तत् “इन्द्रः च इन्द्रोऽपि “त्यजसा त्यागेन न “वि “ह्रुणाति न विह्वरति कौटिल्यं न करोति ॥ चन इत्ययं यद्यपि निपातद्वयसमुदायरूप एको निपातः तथाप्यवयवविभागेन चशब्दः समुच्चये नशब्दो निषेधेऽधिगन्तव्यः ॥ युष्मद्धनादित्यागम् इन्द्रत्यागोऽपि नातिक्रामतीत्यर्थः । यद्वा । यस्मै तद्धनमराध्वं तमिन्द्रोऽपि न कुटिलयति । न निषेधयति किंत्वनुमोदयतीत्यर्थः ॥


तद्वो॑ जामि॒त्वं म॑रुत॒ः परे॑ यु॒गे पु॒रू यच्छंस॑ममृतास॒ आव॑त ।

अ॒या धि॒या मन॑वे श्रु॒ष्टिमाव्या॑ सा॒कं नरो॑ दं॒सनै॒रा चि॑कित्रिरे ॥

तत् । वः । जामिऽत्वम् । मरुतः । परे। युगे । पुरु। यत्। शंसम् । अमृतासः । आवत ।

अया। धिया। मनवे। श्रुष्टिम् । आव्य। साकम् । नरः। दंसनैः। आ । चिकित्रिरे ॥१३॥

हे “मरुतः “वो "जामित्वं बन्धुत्वमस्मद्विषयप्रेमाधिक्यं “तत् खलु प्रसिद्धमित्यर्थः। कियत्पर्यन्तमिति तदुच्यते । “परे “युगे । युगशब्दः कालोपलक्षकः । उत्कृष्टे महति कालेऽतीतेऽपि वर्तत इति शेषः । तत्कथमधिगतमित्यत आह । “अमृतासः अमरणधर्माणो हे मरुतः यूयं “यत् यस्मात् “शंसम् अस्माभिः क्रियमाणां स्तुतिं “पुरु प्रभूतं यथा भवति तथा “आवत रक्षथ । तस्माद्युष्मत्कृतं जामित्वमविनाशीत्यर्थः । किंच यूयम् “अया “धिया अनयानुग्रहात्मिकया बुद्ध्या "मनवे मनुष्याय स्तोत्रे यष्ट्रे वा अस्मदादये “श्रुष्टिमाव्य कीर्तिं स्तुतिं वा रक्षित्वा “साकं संभूय “नरः नेतारः सन्तः “दंसनैः। कर्मभिरित्थंभूताः “आ “चिकित्रिरे सर्वतो जानीथ ॥


येन॑ दी॒र्घं म॑रुतः शू॒शवा॑म यु॒ष्माके॑न॒ परी॑णसा तुरासः ।

आ यत्त॒तन॑न्वृ॒जने॒ जना॑स ए॒भिर्य॒ज्ञेभि॒स्तद॒भीष्टि॑मश्याम् ॥

येन । दीर्घम् । मरुतः । शूशवाम । युष्माकेन । परीणसा । तुरासः ।

आ। यत्। ततनन् । वृजने । जनासः । एभिः । यज्ञेभिः । तत् । अभि । इष्टिम् । अश्याम् ॥१४॥

हे “तुरासः वेगवन्तः “मरुतः युष्माकेन युष्मत्संबन्धिना “येन “परीणसा । यद्यप्येतद्बहुनामसु पठितं तथापि यत् बहु तन्महदपि भवतीत्यत्र महदित्यर्थे गृह्यते । महता युष्मदभिगमनेनैषणेन वा “दीर्घम् आयतं सत्त्रादिरूपं कर्म “शूशवाम प्रवर्धयामः । किंच “यत् येन चाभिगमनेनैषणेन वा “जनासः जना अस्मदीयाः “वृजने संग्रामे “आ “ततनन् सर्वतो विस्तारयन्ति । स्वसामर्थ्यैः संग्रामं जयन्तीत्यर्थः । “तत् “इष्टिम् एषणं गमनम् “एभिर्यज्ञेभिः इदानीं क्रियमाणैः स्तोत्रादिरूपैः पूजनैः “अभि आभिमुख्येन “अश्यां व्याप्नुयाम् ।।


ए॒ष व॒ः स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।

एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

एषः । वः । स्तोमः । मरुतः । इयम् । गीः । मान्दार्यस्य । मान्यस्य । कारोः ।

आ । इषा । यासीष्ट । तन्वे । वयाम् । विद्याम । इषम् । वृजनम्। जीरऽदानुम् ॥ १५ ॥

अयं मन्त्रस्तृतीयाध्यायान्ते व्याख्यातः । सूक्तोपक्रमप्रभृति क्रियमाणां स्तुति मरुद्यःत समर्प्य स्वाभीष्टमाशास्ते । हे “मरुतः “एषः “स्तोमः इदानीं कृतं स्तोत्रं “वः युष्माकं युष्मदर्थमित्यर्थः । तथा “इयं “गीः स्तुतिरूपा वागपि वः युष्माकम् । कस्य संबन्धीदमिति तदुच्यते । “मान्दार्यस्य ।। मन्दतेरीयतेश्च मान्दार्यः ॥ स्तुतिं प्रेरयतः “मान्यस्य माननार्हस्य “कारोः । स्तोतृनामैतत् । स्तोतुः संबन्धि। यद्वा । एतत्पदत्रयमुत्तरत्र संबध्यते । उक्तलक्षणस्तोतुः “इषा इच्छया कामनया “तन्वे युष्मच्छरीरवृद्ध्यै । स्तुत्या हि शरीरं वर्धते । “आ “यासीष्ट अभिगच्छतु स्तुतिः। “वयां वयं च “इषम् अन्नं “वृजनं बलं “जीरदानुं चिरकालजीवनं च विद्याम लभेमहि ॥ ॥ ३ ॥


"[sa.wikisource.org]" इत्यस्माद् पुनः प्राप्तिः

सञ्चरणावलिः

वैयक्तिकोपकरणानि

नामाकाशाः

पाठभेदाः

    मतानि

    अधिकम्

      सञ्चरणम्

      मुद्रणम्/निर्यातः

      उपकरणानि

      अन्यासु भाषासु

        भाषापरिसन्धिः योज्यताम्